________________
(८) उद्गीतिलक्षणम्
आर्या सकलद्वितयं, व्यत्ययरचितं भवेद्यस्याम् । सोद्गीतिः किल कथिता-तद्वद्यत्यंशभेदसंयुक्ता ॥
सरलार्थः-आर्या सकल द्वितयं अर्थात् प्रथमभागो द्वितीयभागञ्च यदि व्यत्ययरचितो भवति = पूर्वार्द्धस्थाने परार्द्धभागः, परार्द्धस्थाने पूर्वार्द्ध भागः इति यावत् । प्रथमपादे द्वितीयपादे क्रमशः द्वादशमात्राः पञ्चदशमात्राः, एवं तृतीय-चतुर्थयोः पादयोः क्रमशो द्वादशमात्राः अष्टादशमात्राः भवन्ति तदा तस्य नामोद्गीतिरिति जायते ।
उदाहरणम्वीर वरेण्य रणमुखे, श्रुत्वा तव सिंहनादमिह । सपदि भवन्त्यरिकरिणो, मधुव्रतोद्गीतिरिक्तगण्डतटाः॥ अथवासंस्कृतवाचोपदिशन्, सुकृती धर्मप्रचारमनाः । जह नु तनुभवारोधसि, मन्त्रोद्गीतिश्चारुमुक्तात्मा ॥ (६) आर्यागीतिलक्षणम्
आर्या पूर्वाद्धं यदि, गुरुणैकेनाधिकेन निधने युक्तम् । इतरत् तद्वन्निखिलं, दलं यदीयमुदितैवमार्यागीतिः ॥
छन्दोरत्नमाला-३५