________________
सरलार्थः-या प्रार्या प्रथमेऽर्द्ध-पूर्वार्द्ध इत्यर्थः, प्राक्पूर्वं प्रतिपादितं-कथितं अर्थात् आर्या सामान्यम्, पथ्याया विपुलायाश्चेति यावत् लक्ष्य-लक्षणमाश्रयेत । प्रथमेतरे - द्वितीये अर्थादुतरार्द्ध, चपलायाः लक्षणं भजते सा आर्या । विशुद्धविद्वद्भिः प्राचार्यवर्यैः जघनचपला उक्ता । समन्वयः स्वयं कार्यः ।
उदाहरणम्बुद्धो योगी विदितो,
यौवनमदलवविहीनकरुणाब्धिः । आसीन्नवाङ्गनानां ,
__सुदुलंभो जघनचपलानाम् ॥
(६) गीतिलक्षणम्
"प्रार्या प्रथमार्द्धसमं यस्या अपराद्धंमाह तां गीतिम् ॥"
सरलार्थः-यस्याः प्रथमा समान एव उत्तरार्द्धभागोऽपि स्यात् तां कवयो गीति कथयन्ति । अर्थात् यत्र प्रथमे तृतीये च पादे द्वादश २ मात्राः द्वितीये चतुर्थे च अष्टादश २ मात्रा भवन्ति सा गीति छन्दो भवति ।
छन्द-३
छन्दोरत्नमाला-३३