________________
स्पष्टता-चतसृणां २ मात्राणामेको गणो भवति एवञ्चात्र पूर्वार्द्ध "नचेत्क" "नृणां भ" इति द्वावपि जगणीस्तः एवमुत्तराद्धपि "र्थकाम" "तदाक" इति जगणावेव स्तः । (४) मुखचपलालक्षणम्
आद्यं दलं समस्तं, भजेत लक्ष्म चपलागतं यस्याः । शेषे पूर्वजलक्ष्मा, मुखचपला सोदिता मुनिना ॥
सरलार्थः-यस्याश्चपलाया आद्य दलं चपलागतं लक्ष्म भजेत, अन्यो भागश्च सामान्यायाः लक्षणलक्षितो भवेत् तदा सा मुखचपला नामतः प्रसिद्धा भवति । उदाहरणम्विपुलाऽभिजात वंशोद
भवापि रूपातिरेकरम्यापि । निःसार्यते गृहाद् वल्ल
भापि यदि भवति मुखचपला ॥ (५) जघनचपलालक्षणम्प्राक् प्रतिपादितमद्धे,
प्रथमे तरे तु चपलायाः । लक्ष्माश्रयेत सोक्ता ,
विशुद्धधीभि - जघनचपला ॥
छन्दोरत्नमाला-३२