________________
मात्रातः पश्चात् पादविरामो भवति । तथाप्युदाहरणान्तरम् -
मुख विपुला पर्यन्ते च लघीयां सो भवन्ति नीचानाम् ।
"
वर्षासु ग्राम पयः, प्रवाहवेगा इव
अत्र द्वादशमात्रानन्तरं यतिर्भवति ।
"
प्रवाहवेगा इव स्नेहाः ॥
(३) चपलालक्षणम् -
उभयार्द्धयोजकारौ, द्वितीय- तुय्यौ गमध्यगौ यस्याः । चपलेति नाम तस्याः, प्रकीर्तितं नागराजेन ॥
अन्वयः-यस्या उभयार्धयोः द्वितीय-तुयौं गमध्यगौ जकारी ( स्यातात्) तस्या: नागराजेन चपलेति नाम प्रकीर्तितम् ।
सारांश:- अर्थात् यस्या आर्यायाः द्वयोरपि खण्डयोः (पूर्वाद्ध उत्तराद्ध च) द्वितीयश्चतुर्थश्च गणाः जगणो मध्यगुरुर्भवति सा चपलेति नाम्ना प्रसिद्धा भवति ।
उदाहरणम्
चपला न चेत् कदाचिद्
धर्मार्थ-काम-मोक्षा
नृणां भवेद् भक्तिभावना कृष्णे ।
स्तदा करस्था न सन्देहः ॥
छन्दोरत्नमाला - ३१