SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ संस्कृतार्थ :-यस्य प्रथमे तृतीये च पादे [चरणे द्वादश २ मात्राः, द्वितीये पादेऽअष्टादश मात्राः, तथा चतुर्थपादे पञ्चदशमात्रा भवन्ति तत् प्रार्यानामकं मात्रिकछन्दो भवति। [मात्रिकश्लोकेऽपि मात्रागणनासमये लघुवर्णस्यैका मात्रा, गुरुवर्णस्य च द्वे मात्रे इति पूर्वोक्त वचः सर्वदा ह्रदि रक्षणीयम् ।] ___ स्पष्टार्थ :-आर्या छन्दसि-१. प्रथमे चरणे (१२) द्वादशमात्राः । २. द्वितीये चरणे (१८) अष्टादशमात्राः। ३. तृतीये चरण [१२] द्वादशमात्राः । ४. चतुर्थ चरणे [१५] पञ्चदशमात्राः भवन्ति । ___ इदं लक्षणात्मकं पद्यमपि आर्याछन्दसि रचितमस्ति । यतोऽत्रापि लक्षणं संघटतेऽतोऽस्योदाहरणमपि भवितुमर्हति । तथापि पद्यान्तरमुदाहरणं प्रस्तूयतेशिवमस्तु सर्वजगतः, परहित-निरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवन्तु लोकाः ॥ [ इति बृहच्छान्तिस्मरणे (स्तोत्र ) प्रोक्तम् ] अस्य च आर्याछन्दसो नवभेदाः प्रभवन्ति । यथापथ्या विपुला चपला मुखचपला जघनचपला । गीत्युपगीत्युद्गीतयः आर्यागीतिश्च नवधाऽऽर्या ॥ छन्दोरत्नमाला-२८
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy