SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सलघुनगणो भवेत् तदा प्रथम लघूपरि यतिरपेक्ष्यते । एवं सप्तमो गणः सलघुनगणः स्यात् तदा षष्ठगणस्यान्ते यतिः कर्त्तव्येति नियमः । इति पूर्वार्द्ध नियमः । उनराद्धअर्थात्-तृतीयचतुर्थचरणयोः यदि पञ्चमोगणः सलघुनगणश्चेत् तदा चतुर्थगणस्यान्ते यतिः कर्तव्या। तदुत्तरं षष्ठोगण एकलघुवर्णमात्रक एव भवति । तस्मादेवोत्तरार्द्ध पूर्वार्द्धतः तिस्रो मात्राः न्यूना जायन्ते । एतदेव छन्दोऽनुशासने कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृत ग्रन्थेऽपि कथितमिति । यथा-“च गौ च गण सप्तकं, गुरुश्चाद्धे यस्या साऽऽर्या । अपरेऽर्द्ध षष्ठो गणो न त्वद्युकार्यः ।" उदाहरणम्उपदिश्यते तव हितं , वाञ्छसि कुशलमात्मनो नित्यम् । मा जातु दुर्जनजने , स्वार्याचरितं प्रपद्यस्व ॥ महाकविश्रीकालिदासकृत श्रुतबोधेऽपि आर्याछन्दसोऽतिसरलं प्रसिद्धतमं प्राञ्जलं लक्षणम्यस्याः प्रथमे पादे, द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थके पञ्चदश सार्या ॥४॥ छन्दोरत्नमाला-२७
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy