________________
तथापि वृत्तरत्नाकराद्याचार्यमतेन मात्रावर्णभेदेन छन्दसां द्वविध्यमेव दर्शितमस्ति पद्यमुखेन । यथा
रत्नाकरमते छन्दो, द्विविधं वरिणतं सदा । प्रार्यादेर्मात्रिकेष्वेव, अन्तर्भावो विधीयते ॥ इति
अथ मात्रिकाशिक्षणे मात्राया एव प्राथम्यं । तेनात्र प्रथमं मात्रा छन्दसामेव लक्षणादिकं दातुमुचितमस्ति । तेष्वपि प्रार्याछन्दसः परमप्रसिद्धत्वेन तस्यैव लक्षणं प्रथम प्रस्तूयते ।
आर्यायाः सामान्यलक्षणं शास्त्रग्रन्थेलक्ष्म तत् सप्तगणाः गोपेता भवति नेहविषमे जः। षष्ठोऽयं न लघू वा, प्रथमेऽर्द्ध नियतमार्यायाः ॥ षष्ठे द्वितीयत्वात् परके, त्वे मुखत्वाच्च स यति पदनियमः। चरमे पञ्चमके, तस्मादिह भवति षष्ठो त्वः ॥
सारांशः-पार्यायाः पूर्वार्द्ध-अर्थात् प्रथमद्वितीयपादपर्यन्तं, चतुर्मात्रावन्तः सप्तगणाः भवन्ति, अन्ते च एको गुरुवर्णो भवति । अत्र विषमगणेऽर्थात्-[ १-३-५-७ ] एक-तृतीय-पञ्चम-सप्तमगणेषु जगणो [मध्यमगुरुः] नैव ध्रियते, किन्तु षष्ठो गणाः जगणाः अथवैकलघुवर्णसहितो नगणो भवितुमावश्यकं भवति । यदि षष्ठोगणः
छन्दोरत्नमाला-२६