SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः अथ मात्रिकच्छन्दसां प्रकरणम् छन्दसां ज्ञानाय प्रसिद्धपिङ्गलशास्त्रे छन्दोऽनुशासनादि ग्रन्थे चानेकछन्दसां वर्णनं विद्वत्समाजे पठन-पाठनादौ च नितरां प्रसिद्धमस्ति । तेभ्यः स्वपरसम्प्रदायग्रन्थेभ्यः समृद्धृत्य प्रचलितानामत्यन्तोपयोगिनां छन्दसां पठनक्रियोपयोगायात्र सरलतया रीत्या सविवेचनं सोदाहरणञ्च लक्षणादिकमुच्यते । ____ तत्र तावत् सामान्यतया सर्वत्र छन्दो द्विप्रकारेण वणितं भवति-१. मात्रागणना नियमबद्धं, २. वर्णगणनानियमबद्धञ्च । यद्यपि छन्दशास्त्रमर्मज्ञैः कियद्भिविद्वद्भिश्छन्दसां त्रयो भेदाः दर्शिताः सन्ति । यथा आदौ तावद् गरगच्छन्दो, मात्राच्छन्दस्ततः परम् । तृतीयमक्षरच्छन्द-स्त्रेधा भवति वर्णनम् ॥ आर्याद्युद्गीतिपर्यन्तं, गरगच्छन्दः समीरितम् । वैताल्यादिचूलिकान्तं, मात्राच्छन्दः प्रकीर्तितम् ॥ सामान्याद्युत्कृति यावदक्षरच्छन्द एव च ॥ छन्दोरत्नमाला-२५
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy