________________
गतेरर्थो भवति प्रवाहः । अर्थात् पद्योच्चारणं कथं कीदृक् प्रवाहपूर्वकं विधेयमिति ज्ञानम् । अर्थात् कस्यापि पद्यस्य कीदृशोच्चारणप्रवाह इति विज्ञाय सावधानं पद्यं पठनीयं कुत्रापि ।
॥ इतिश्री शासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छापति - भारतीयभव्यविभूति-अखण्डब्रह्मतेजोमूर्ति - चिरंतनयुगप्रधानकल्प - सर्वतन्त्रस्वतन्त्र - श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक - परम पूज्याचार्यमहाराजाधिराज - श्रीमद्विजयनेमिसूरीश्वराणांपट्टालंकार - साहित्यसम्राट् - व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न - साधिकसप्तलक्षश्लोकप्रमाण नूतनसंस्कृतसाहित्यसर्जक - परमशासनप्रभावक - निरुपमव्याख्यानामृतवर्षि बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां पट्टधर-धर्मप्रभावक-व्याकरणरत्नशास्त्रविशारद-कविदिवाकर-देशनादक्ष- बालब्रह्मचारि-परमपूज्याचार्यदेव-श्रीमद्विजयदक्षसूरीश्वराणां - पट्टधर-जैनधर्मदिवाकर-शासनरत्न-तीर्थप्रभावक- राजस्थानदीपक - मरुधरदेशोद्धारक-शास्त्रविशारद-साहित्यरत्न-कविभूषणेति-पदसम - लङ्कृतेन श्रीमद्विजयसुशीलसूरिणा विरचितायां छन्दोरत्नमालायामावश्यकवस्तुपरिचयात्मकः प्रथमः स्तबकः
॥ समाप्तः ॥
छन्दोरत्नमाला-२४