________________
'स्यादिन्द्रवज्रा यदि तौ जगौ गो, यस्यां क्रिया षट्प्रमितैविरामः । '
अर्थात् यत्र क्रिया पश्चमेऽथ पष्ठेऽक्षरे विरामो भवति तदिन्द्रवज्रानामकं छन्दो जानीयात् । इत्थमेवान्यन्नपि छन्दसि यतिः कर्तव्येति सर्वत्र निर्दिष्टं वोभवीति ।
यतिविचारे छन्दोऽनुशासनसूत्रम् -
'श्रव्यो विरामी यतिः | १६ | स श्रुतिसुखो यतिसंज्ञः । सा च तृतीयान्तेषु गद्यादिनिर्देशेषु उपतिष्ठते । गादयश्च साकाङ्क्षत्वात् यतिरित्यनेन संवध्यन्ते । तेन गाद्यवच्छिन्नैरक्षरैर्यतिः क्रियते इत्ययमर्थः सिद्धयति ।
तत्रैषा यत्युपदेशोपनिषत् पठितास्ति ।
यतिः सर्वत्र पादान्ते, श्लोकाद्धे तु विशेषतः । गाविच्छिन्नपदान्ते च, लुप्ता लुप्तविभक्तिके ॥
अत्र नियमविशेषोऽपि
१. परादिवद्भावविषये प्रन्तादिवद्भावविषये च यति
नष्टा भवति ।
२. चादिभ्यः पूर्वं यतिर्न कर्तव्या ।
३. प्रादिभ्यः परं यतिर्न कर्तव्या । उदाहरणं गवेषणीयं ग्रन्थभूयंस्त्वान्नेह दीयते ॥
छन्दोरत्नमाला - २३