________________
प्रकारो निश्चितो भवति । प्रत्येकं छन्दो भिन्न-भिन्नप्रकारेण पठ्यते येन श्रोतृ णामानन्दवर्धनं जायते । भावाभिव्यक्तिश्च शीघ्र सम्पद्यते । तदुक्तमाचार्येणयतिजिह्वष्ट विश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः, पदैर्वाच्या निजेच्छया ॥
जिह्वाया इष्टं विश्रामस्थानं स्थितिस्थानं कविभियतिः कथ्यते । सा यति निजेच्छया बोधव्येति कस्यचिन् मतम् । अत्र केचिदन्येविद्वांसः प्राहुः
एवं यथा यथोद्वगः, सुधियां नोपजायते। .
तथा तथा मधुरता - निमित्तं यतिरिष्यते ॥ अर्थाद्-यतिनिर्देशे सुश्रवता भवेत् सा यतिरादरणीयैव । तदुक्तम्
श्लोकेषु नियतस्थाने, पदच्छेदं यति विदुः ।
तदपेतं यतिभ्रष्ट, श्रवणोद्व जनं यथा ॥ तदेवं सर्वसारो निस्सरति श्लोकानां पठनकाले तत्तच्छ लोकलक्षणानुसार यतिः (विरामः विश्रामो वा) विधेयैव ।
प्रत्येकछन्दो लक्षणे प्रायशो निर्दिष्टमेव भवति यदस्मिन् पद्येऽमुकामुकस्थाने यतिविधेयेति । यथा
छन्दोरत्नमाला-२२