________________
लक्षणानि च निर्दिष्टानि सन्ति । यथा-१. यगणः २. मगणः ३. तगणः ४. रगणः ५. जगणः ६. भगणः ७. नगणः ८. सगण इति आदितोऽष्टाक्षराणि गृहीत्वा नामान्यागतानि तत्पश्चात् लवर्णेन लवुः गवर्णेन गुरुरिति करणीयमिति निर्दिष्टमस्ति ।
अत्र प्रथमाक्षरमादायवर्णत्रयपर्यन्तं-'यमाता' इत्याकारो भवति । अत्र प्रथमाक्षरं लघुरन्यौ च गुरु वर्तेते एतदेवलक्षणमस्य यगणस्येति बोध्यम् । एवमेव द्वितीयाक्षरमादाय ततस्तृतीयवर्णपर्यन्तं 'मातारा' इत्याकारो जायते । अत्र वर्णत्रयो गुरवः सन्ति तस्मात् मगणो सर्वे वर्णा गुरवः भवन्तीति बोध्यम् । एवमेवोत्तरक्रमेण त्रयस्त्रयो वर्णाः स्वस्वनामलक्षणानि ज्ञापयन्तीति । (८) अथ मात्रागणाः
मात्रिकछन्दस्यपि प्रत्येकपादस्य मात्रा गणनीया, अतः प्रत्येकमात्रिकपद्येऽपि गणानां गणना कर्तव्यैव । अत्र च मात्रिकच्छन्दसि चतसृणां मात्राणामेको गणो जायते इति विशेषताऽस्ति । अस्मिन्नपि वणिकछन्दोवत् ह्रस्वस्यका मात्रा, दीर्घस्य वर्णस्य द्वमात्रे भवतः । क्रमेण च लघुगुरू भवतः । अर्थादेकमात्रिको वर्णो लघुः, द्विमात्रिकश्च गुरुर्जायते । मात्रिकगणानां नामानि चिह्नानि च निम्न
छन्द-२
छन्दोरत्नमाला-१७