SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ६. यत्र च प्रथमो वर्णो गुरुस्तत् पश्चाद् लघुस्ततश्च गुरुरेव दृश्यते स 'रगरणः' कथ्यते । ७. यत्र च प्रथम-द्वितीयौ लघू स्तः, तृतीयश्च गुरुः स 'सगणः ' प्रतिपाद्यते । ८. एवमेव वर्णत्रयसमुदाये प्रथम द्वितीयौ गुरू भवैतस्तृतीयश्च लघुरस्ति स ' तगणः' कथ्यमानो भवतीति व्यवस्थापितं छन्दोविद्भिः । एतेषामेवाष्टानां गरणानां लक्षणप्रतिपादकं कविश्री कालिदासस्य पद्यान्तरमप्यवलोकनीयम् - श्रादिमध्यावसानेषु, भजसा यान्ति गौरवम् । यरता लाघवं यान्ति, मनौ तु गुरुलाघवम् ॥ अस्य सरलार्थः - भगरण - जगरण - सगरणाः क्रमेण प्रादिमध्यावसानेषु गुरुवर्णका भवन्ति । यगरण, रगण, तगणाश्च अनुक्रमे आदि-मध्यावसानेषु लघुवर्णका भवन्ति । मगणे त्रयोवर्णा गुरवो जायन्ते तथा नगरणे च त्रयोवर्णा लघवः प्रभवन्तीति हृदयम् । इत्थं प्रदर्शिताऽष्टगरणज्ञानाय किञ्चिदन्यदपि लक्षणं छन्दोज्ञानवतां सम्प्रदाये प्रसिद्धयति । यथा-"यमाताराजभानसलगम् ॥' अस्मिन् लघावेवैकवाक्ये सर्वेषां गणानां नामानि छन्दोरत्नमाला - १६
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy