________________
प्रख्याताः, प्रयुज्यन्ते च वृत्तात्मके छन्दसि । एतदेव पद्यमुखेन प्रशितं भवति
मस्त्रिगुरुस्त्रिलघुश्च नकारो
भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतोरलमध्यः,
सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥
सरलार्थ :१. यस्मिन् गणे अर्थात् वर्णत्रयसमुदाये त्रयोऽपि वर्णाः
गुरवो भवन्ति स 'मगणः' कथ्यते । २. यस्मिन् वर्णत्रयसमुदाये त्रयोऽपि वर्णाः लघव एव
भवन्ति स 'नगणः' भवति । ३. यत्र समुदाये प्रथमो वर्णः गुरुर्भवति द्वितीयस्तृतीयश्च
लघू भवतः स 'भगणः' कथ्यते । ४. यस्मिन् वर्णत्रयसमुदाये प्रथमो वर्णो लघुरस्ति अन्यौ
च गुरू भवतः स 'यगरण' नाम्ना प्रसिद्धयति । ५. यस्मिन् समुदाये प्रथमो वर्णो लघुः द्वितीयो गुरुः पुन
स्तृतीयश्च लघुरेव तिष्ठति स 'जगणः' प्रसिद्धो भवति ।
छन्दोरत्नमाला-१५