SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथमं वर्णगरगज्ञानाय तदेव प्रस्तूयते - गरणपदेनात्र वर्णत्रय समुदायविशेषस्य ग्रहणं क्रियते, नाधिकस्य नापि न्यूनस्य वा । प्रत्येकस्मिन् गणे त्रीणित्रीरिण अक्षराणि मन्यन्ते ध्रियन्ते च । अतोऽक्षरत्रयसमुदाय भेदादष्टौ गरणा : इह प्रख्याताः भवन्ति । अष्टस्वपि गणेषु लघुगुरुवर्णभेदेन परस्परं भिन्नता स्पष्टतरा दृश्यते । गणानां प्रस्तारक्रियायां लघ्वक्षरसङ्केतः सरलरेखा धर्तव्या । यथा - ' । ' इति लघुचिह्न ं भवति । तथा गुरुवर्णज्ञानाय वक्ररेखा ( अवग्रहचिह्नमिति यावत् ) धर्तव्या । यथा - '5' इति गुरुवर्णसङ्केतः प्रसिद्ध एवं । तदुक्तमस्त्याभाणकम् • वक्ररेखा गुरोश्चह्न, सरला च लघोस्तथा । गुरुरेको गकारः स्यात्, लकारो लघुरेककः ॥ अर्थात् - वक्ररेखा '5' गुरुचिह्न ं ज्ञेयम् । सरला च रेखा' ।' लघुचिह्न ं ज्ञेयं रक्षणीयञ्च । तथा ग मात्र कथनेन एकगुरुवर्णस्य बोधः, गौ कथनेन द्वयोर्गुर्वोग्रहणं जायते । एवमेव 'ल' मात्र कथनेन एकस्य लघोवर्णस्य ज्ञानं, 'लौ' कथनेन द्वयोर्लध्वोर्वर्णयोर्बोधो भवति । एवञ्च लघुगुरुवर्णविन्यासजन्यगणभेदेन गणाः अष्टौ छन्दोरत्नमाला - १४
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy