________________
घ्यते । किन्तु “गुणिनामपि निजरूप-प्रतिपत्तिः परत एव स भवति । स्वमहिमदर्शनमक्ष्णोर्मु कुलतले जायते यस्मात् ।।" इत्यत्र प्रथमचरणे रूपस्य प्रकारे नियमः प्रवर्तते तेन च मात्राया न्यूनत्वं न भवति । अन्यथा एकादश मात्रा एव जायन्ते न तु द्वादश मात्रा गणयित्वा दृश्यताम् । (६) युगायुक् संज्ञे
'युक् समं विषमञ्चायुक् स्थानं सद्भिनिगद्यते ।'
सारांशः- समं द्वितीय-चतुर्थादिस्थानं सद्भिः युक् कथ्यते । विषमञ्च अर्थात् प्रथम-तृतीयादि स्थानं सद्भिः अयुक् निगद्यते । चकारात् समस्य युग्म, अनोजसंज्ञेऽपि स्तः । विषमस्य अयुग्म प्रोजसंज्ञे भवत इति बोध्यम् । आसां संज्ञानां प्रयोगः पादस्य सम विषमता बोधनायैव प्रायः क्रियते ।
(७) गणज्ञानम्
छन्दश्शास्त्रे वर्णमात्रासहकृतमेव गणज्ञानं प्रदशितं भवति । कस्यापि छन्दसः (पद्यस्य) रचनायां गणज्ञानमत्यावश्यकमेव भवति । गणोऽपि द्विविधो भवति । १. मात्रागणः, २. वर्णगणश्च ।
छन्दोरत्नमाला-१३