________________
ऽनुशासन सूत्रम् - "वान्ते ग् व ऋः ' " पादान्ते वर्त्तमानो ह्रस्वो ग संज्ञको भवति स च प्रस्तारे वऋः स्थाप्यते । वंशस्थादौ च पादान्तस्थो लघुगुरुर्न जायते इति कविसम्प्रदायः । तदुक्तं छन्दश्शास्त्रविशारदैः
वंशस्थ कादिचररणान्त निवेशितस्य,
गत्वं लघोनहि तथा श्रुतिशर्मदायि । श्रोतुर्वसन्ततिलकादिपदान्तवत्ति
त्वो गत्वमत्रविहितं विबुधैर्यथा तत् ॥
संयुक्ताक्षरादिर्लघुरपि गुरुर्भवतीति नियमः, किन्त्वत्र वृत्तरत्नाकरकारोऽन्यथा वक्ति । यथा
पादादाविह वर्णस्य, संयोगः क्रमसंज्ञकः । पुरः स्थितेन तेन स्याद्, लघुतापि क्वचिद् गुरोः ॥
अर्थात् संयुक्तपरस्य विषये क्वचिदपवादो बोधव्यः । तत्र च स्वेच्छया गुरु मन्तव्यम् । यथा
तरुणं सर्वपशाकं नवोदनं पिच्छिलानि च दधोनि । प्रल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥
अस्मिन् पद्ये सुन्दरि ! अत्र यदि नियमः प्रवर्त्तेत तदारिकारस्य गुरुत्वेन मात्राधिक्यं स्यादतः नियम उल्लङ्
छन्दोरत्नमाला - १२