________________
२. अक्षिस्पन्दनप्रमाणकः कालविशेषो मात्रा। नेत्रनिमीलनोन्मीलने यावान् समयो व्यतीतो भवति तावान् समयः मात्राशब्देन बोधव्यः ।। ___ इत्थं प्रदर्शितरीत्या एकमात्रिकः स्वरस्तत्सहितं व्यञ्जनं वा ह्रस्वसंज्ञको भवति स च लघुः । द्विमात्रिकः दीर्घसंज्ञको भवति । स च गुरुः । त्रिमात्रिकस्ततोऽधिका वा प्लुताः कथ्यन्ते। किन्तु छन्दश्शास्त्रे लघुगुरुभेदेन मात्राया द्वावेवभेदौ स्तः । ननु व्याकरणशास्त्रवत् प्लुतानामत्र पृथग्ग्रहणं क्रियते। तेषामपि गुरावेवान्त
र्भावः क्रियते इति ज्ञेयम् । एवञ्च ह्रस्वस्वरस्तत् संयुक्तव्यञ्जनं वा लघुज्ञेयः। तद्यथा-छन्दोऽनुशासने ह्रस्वो ऋजुः । ह्रस्वो मात्रिको वर्ण 'ल' लघुसंज्ञो भवति स च प्रस्तारे ऋजुः (1) स्थाप्यः । दीर्घस्वरस्तत्संयुक्तव्यञ्जनञ्च गुरुपदेन बोधव्यः । तदुक्त छन्दोऽनुशासनेदीर्घप्लुतौ द्विमात्रत्रिमात्रौ वौं ग् (गुरु) संज्ञौ भवतः वक्रौ (s) च। लघुस्वरात् परं क्वचिदनुस्वारो विसर्गो वा आयाति, अथवा संयुक्ताक्षरमग्रे समायाति तदापि लघु वर्णाः गुरुसंज्ञका एव बोधव्या भवन्ति ।
अत्र छन्दोऽनुशासनसूत्रम् ") ( क प विसर्ग अनुस्वारव्यञ्जनाह्रादि संयोगे"
छन्दोरत्नमाला-१०