SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (४) लघु-गुरुवर्णज्ञानम् छन्दोज्ञान जिज्ञासूनां जनानां प्रथममक्षरज्ञानमवश्यमपेक्षितं भवति । व्याकरणशास्त्रे लौकिकवर्णशिक्षाक्रमे च अक्षरं द्विप्रकारकं भवति । यथा (१) स्वरः, (२) व्यञ्जनश्च । तत्र स्वरवर्णानां त्रयो भेदा भवन्ति । ते च क्रमशः ह्रस्व-दीर्घ-प्लुतसंज्ञकाः प्रसिद्धाः। तद्यथा (१) एकमात्रिको वर्णः ह्रस्वो (लघुः) भवति । यथा-'अ इ उ ऋ लु' इति । (२) द्विमात्रिको वर्णः दीर्घः (गुरुः) कथ्यते । यथा'आ ई ऊ ऋ ल. ए ऐ ओ औ' इति । (३) त्रिमात्रिकास्तु प्लुतोऽधिका वा वर्णाः प्लुतसंज्ञकाः प्रसिद्धा भवन्ति । यथा-'अ३ इ३ उ३' इत्यादि । (५) मात्राज्ञानम् मात्रा भेदावुभौ ख्यातौ छन्दश्शास्त्रे विशेषतः। तत्र तावन्मात्रा शब्दार्थविषये काव्यशास्त्राभ्यासवतां सम्प्रदाये कथितमस्ति। मात्राशब्दस्यार्थ: १. व्याकरणशास्त्र मात्राशब्देन अकारस्वरस्योच्चारकालो गृह्यते । छन्दोरत्नमाला-९
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy