________________
संघटते तद् वाणिकं छन्दः कथ्यते । एतदेव वृत्तं वर्णवृत्तं वेति नाम्ना प्रसिद्धमस्ति । वृत्तानां (वाणिकछन्दसां) प्रत्येकं वर्णगणानुसारं वर्णानां गणनां विधाय रच्यते । यथा-इन्द्रवज्रायामुपेन्द्रवज्रायां मालिन्यादौ च ।।
(३) मात्रिक-वाणिकछन्दसामुपभेदाः- उभयविधानामपि छन्दसां सामान्यतया त्रयस्त्रय उपभेदाः सन्ति । यथा-१. समम्, २. अर्धसमम्, ३. विषमञ्चेति ।
१. समैः पादैः समम् । पादैश्चतुभिस्तुल्यलक्षणैः समं वृत्तं भवति । यत्र सर्वे पादाः (चरणाः) समानमात्राः, समानवर्णकाः वा सन्तः तुल्यलक्षणैश्चतुर्भिः पादैः रच्यन्ते तत् समं छन्दः कथ्यते । यथा-वसन्ततिलका, इन्द्रवज्रा, दोधक, मालिनीत्यादयः ।
२. समाधमर्धसमम् । यस्य तुल्ये अर्धे तदर्धसमं वृत्तं भवति, यथा-वैतालीयेत्यादि ।
३. आभ्यामन्यद् विषमं छन्दः कथ्यते । यत्र भिन्नभिन्नमात्रावर्णसंख्यकाः सर्वे पादाः भवन्ति तद् विषमं छन्दः प्रतिपाद्यते । यथा-आयाम्-उद्गाथादौ च । विषमछन्दसि प्रत्येकं पादः न्यूनाधिकवर्णको मात्रिको वा दृष्टो भवति । तदुक्तम्
छन्दोरत्नमाला-५