________________
प्रत्येकस्मिन् छन्दसि चतुर्थो भागः पादः, चरणः वा कथ्यते । अत्र कलिकालसर्वज्ञश्रीमदहेमचन्द्रसूरीश्वरविरचितं छन्दोऽनुशासनसूत्रम्
"तुर्योऽशः पादोऽविशेषे” (११) छन्दसश्चतुर्थो भागः पादसंज्ञः अविशेषे सामान्याभिधाने । यत्र तु द्विपदी, पञ्चपदी, षट्पदी, अष्टपदी चेति विशेषाभिधानं तत्र द्वितीयाद्यंशोऽपि पादः कथ्यते। उपर्युक्तमात्रिक-वणिकछन्दसां संस्कारो नामकरणञ्च भिन्नप्रकारेण भवति ।
(१) यस्मिन् छन्दसि पद्ये वा मात्राणां गणनां विधाय पादनिर्माणं भवति तन्मात्रिक छन्दः (पद्यं) कथ्यते । अत्र प्रत्येकस्मिन् पादे (चरणे) वर्णाः समाना असमाना वा भवितुमर्हन्ति । इदञ्च मात्रिक छन्दः जातिपदेनापि व्यवह्रियते। तदुक्तमाचार्यैः-“पद्यं चतुष्पदी तच्च वृत्तजातिरिति द्विधा जातौ (मात्रिकछन्दसि) पादरचना मात्रागणानामनुसारेण क्रियते-अर्थादत्र मात्रा गण्यन्ते । यथा-आर्यादिषु भवति ।”
(२) यस्य छन्दसः चतुर्वपि च पादेषु लघु-गुरु वर्णानां क्रमभङ्गो न जायते-अर्थाद् वर्णगणनिर्देशो यत्र सम्यक्
छन्दोरत्नमाला-४