SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (३) छन्दसां भेदाः ___ यद्यपि छन्दांसि संस्कृतभाषायामनेकानि सन्ति तथापि तेषां मुख्यतया द्वावेव भेदौ स्तः । वेदेषु यानि छन्दांसि सन्ति तानि वैदिकानि, लोकेषु व्यवहारप्रयुक्त षु प्रसिद्धानि लौकिकानि च कथ्यन्ते। अत्र च केवलं लौकिकछन्दसामेव लक्षणभेदोदाहरणानि विवेचनीयानि सन्ति । तत्र लौकिकछन्दसामपि मुख्यतया द्वावेव भेदौ वर्तेते। तद्यथा मात्रिकं वर्णिकञ्चेति । तदुक्तम् पिङ्गलादिभिराचाय-, यदुक्तं लौकिकं द्विधा । मात्रा वर्णविभेदेन, छन्दस्तदिह कथ्यते ॥ पिङ्गलाद्याचार्यैः लौकिकं लोके प्रयुज्यमानं मात्रावर्णविभेदेन आर्यादि तथा श्रीत्यादिभेदेन द्विधा द्विप्रकारकमुक्तम् । केनाप्याचार्येण छन्दसस्त्रविध्यमुक्तम् । तद्यथाप्रादौ तावद् गरगच्छन्दो, मात्राच्छन्दस्ततः परम् । तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ।। आर्यादीनि गणच्छन्दांसि, वैतालादीनि मात्राच्छन्दांसि, वर्णक्रमवन्ति प्रमाणिकादीनि अक्षरच्छन्दांसीति । इह छन्दोरत्नमाला-३
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy