________________
तत्र तावत् कवेः शिक्षा कीदृशीति जिज्ञासायां समुपलब्धविलक्षणकाव्यगिरः कवयितुं शिक्षा कथ्यते । कविशिक्षायां प्रथमश्छन्दोज्ञानमतीवावश्यकमिति तदेव वर्ण्यते । (१) छन्दसां लक्षणम्
यद् वाक्यरचनायां मात्राणां वर्णानाञ्च विशेषरूपेण गणना, लघुगुरुवर्णक्रमविचारः, विरामस्य (यतेः) गतेश्च नियमः समुपलभ्यते तदेव वाक्यं छन्दः संज्ञां लभते । (२) छन्दश्शब्दस्यार्थः
सान्तश्छन्दश्शब्दास्तावदर्थद्वयस्य वाचकः । तद्यथा
(१) 'छदि आवरणे' धातुरस्ति, तस्मात् छदयति भावान् रसान् अलङ्कारादींश्च यत् तच्छन्दः । अनया च व्युत्पत्त्या छादनम् (आवरणम्) अर्थोऽस्य निस्सरति छद्धातोरस्प्रत्ययो नुम् च भवतस्तदायं सिद्धयति ।
(२) अथापरञ्च व्याख्यानम्-'चदि आह्लादने' धातुरस्ति तस्मात् चन्दतीति छन्दः प्रतिपादितं भवति । अत्र धात्वादिचकारस्य निपातनात् छकारोऽस्प्रत्ययश्च पूर्ववदेव ज्ञातव्यः । एवञ्च आह्लादनम् (प्रानन्दनम्) अस्य शब्दस्यार्थः प्रसिद्धयति अर्थादाह्लादजनकं वास्य संघटनं छन्दः पदेन व्यवह्रियते ।
छन्दोरत्नमाला-२