SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ निरूपणं विराजते । ग्रन्थस्य मौलिक स्वरूपं सूत्रात्मकम् अस्ति । स्वयमेवाचार्येरणास्य वृत्तिरपि लिखिता। 'रसगगाधर' इवास्यां रचनायामुदाहरणादिकं सर्वमेवाचार्यस्य स्वकीयमेव । न्यायक्षेत्रे प्रमाणमीमांसा । योगक्षेत्रे योगशास्त्रम् । स्तोत्रविषये द्वात्रिशिकानां रचनाः। स्वतः स्पष्टतामेति यदयमाचार्यः सर्वतन्त्रस्वतन्त्र: शास्त्रीयो विद्वान्, वैयाकरणः, दार्शनिकः, काव्यकारस्तथा लोकचरित्रस्यामरसुधारको बभूव । सिद्धराजजयसिंहकुमारपालादयोऽनेन प्रतिबोधितः । सर्वेऽपि साहित्यतत्त्वमर्मज्ञाः कल्पान्त यावत् एनं प्रति नतमस्तकाः भविष्यन्ति । छन्दोरत्नमालायाः समर्पणं कुर्वता महता प्रमोदेनोत्साहेन च परमकृतज्ञभावः प्रस्तूयते । छन्दःशास्त्रप्रवेशाय मदीयैषा कृतिः छात्राणां बालमुनीनाञ्चोपकारं तनोतु-इति मंगलमनीषया विरमति -प्राचार्यविजयसुशीलसूरिः ( २० )
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy