________________
आत्मनिवेदनम्
भारतीय साहित्यक्षेत्र पद्यरचनायाः वैशिष्ट्यं न तिरोहितं सुशेमुषीमताम् । तत्र छन्दोज्ञानस्य परमावश्यकतेति कृत्वा सारल्येन तज्ज्ञानाय व्यावहारिकारणां छन्दसां लक्षणोदाहरण – पुरस्सरं किञ्चिदिह बालोपकारधिया 'छन्दोरत्नमाला' - रूपेण संग्रथितं स्वरूपम् ।
छन्दो रत्नमालायाः किं स्वरूपमिति विषये स्वनामधन्यानां विद्वन्मूर्धन्यानामाचार्यश्री शम्भुदयालपाण्डेयानां विमर्शवेदिका तथा डॉ. चेतनप्रकाशपानटी 'महोदयानां' भूमिका स्फोरयति सकलमपि विषयजातम् ।
अस्या: 'छन्दोरत्नमालायाः' समर्पणम्, कलिकाल सर्वज्ञश्री हेमचन्द्राचार्याय कृतम् । प्राचार्योऽय तत्कालीन विदुषां समाजेऽद्वितोयो विद्वान् ग्रन्थकारश्चासीत् । अस्य परमश्रद्धं यस्याचार्यस्य व्यक्तित्वं कृतित्वञ्चालौकिकमेव दरीदृश्यते ।
पुराणात्मकविधायां त्रिषष्टिशलाकापुरुषचरितम्, काव्यक्षेत्रे - कुमारपालचरितम् अथ च द्वयाश्रयकाव्यम् । व्याकररणक्षेत्र - शब्दानुशासनम्, कोशक्षेत्र ेऽस्य चत्वारः कोशाः सन्ति विख्याताः १. अभिधानचिन्तामणिः २. अनेकार्थसंग्रहः ३. निघण्टुः ४. देशीनाममाला च । अलंकारक्षेत्र - काव्यानुशासनम् । छन्दःक्षेत्रे छन्दोऽनुशासनम् । अस्मिन् संस्कृत - प्राकृताऽपभ्रंशसाहित्यच्छन्दसां
( १९ )