________________
"यक्षरैस्त्र्यक्षरैरेव छेदैराभाति दोधकम्" "विसर्गयुक्तः पादान्तः शोभामेति रथोद्धता". "साकाराय विसर्गान्तः सर्वपादैः सविभ्रमा"
"स्वागता स्वागता भाति कविकर्मविलासिनी" अर्थात् -अश्रव्यता सर्वतोभावेन त्याज्या अन्यथा तु 'हतवृत्त' दोषेण दूषितं भवति साहित्यम् । अन्यत्र सर्वत्र सर्वेषां वत्तानां प्रयोगो नोचितोऽपितु रस-भावानुसारेणव तेषां तेषां छन्दसां प्रयोगः कर्तव्यः । यथा
शमोदेशवृत्तान्ते, सन्तः शंसन्त्यनुष्टुभम् । रथोद्धता विभावेष, भण्या चन्द्रोदयादिष। षाड्गुण्यप्रगुरणा नीतिवंशस्थेन विराजते । प्रौदार्यरुचिरौचित्यविचारे हरिणी मता ॥ प्रावृटप्रवासव्यसने मन्दाक्रान्ता सुशोभते । शौर्यस्तवे नृपादीनां शार्दू लक्रीडितं मतम् ॥ दोधकस्यानुगुण्यञ्च कविभिः स्वीकृतंहसे। एवं विज्ञायते यत् छन्दोनिर्माणकाले विशेषतः साहित्यक्षेत्र श्रव्यतायाः ध्यानमावश्यकमन्यथा तु हतवृत्त दोषः समुत्पद्यत ।।
प्रस्तुतछन्दोरत्नमालायां व्यवहतानां प्रसिद्धसाहित्य ग्रन्थेषपनिबद्धानामेव छन्दसां समाकलनमस्ति किन्तु छन्दःशास्त्रप्रवेशाय एतद् परमोपकारि भविष्यति । विशेषरूपेण विशिष्ट जिज्ञासा चेत पिङ्गलकृतं छन्दःशास्त्रम्, प्राचार्यश्रीहेमचन्द्रकृतं छन्दोऽनुशासनम् इत्यादीनि ग्रन्थरत्नानि विलोकनीयानि ।
प्रकाशनमिदं जिज्ञासूनां मार्गदर्शकं भवतु । आचार्यश्रीविजयसुशीलसूरिश्च स्वास्थ्यरत्नमासाद्य साहित्यसन्दोहनिरतो भवन् जनकल्याणं करोतु-इति मङ्गलकामना-सहितो विरमति
विदुषां वशंवदः स्थलम्
आचार्यशम्भुदयालपाण्डेयः १०/४३० नन्दनवन
व्याकरणाचार्यः, साहित्यरत्नम् जोधपुर-८
शिक्षाशास्त्री