SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्वस्यागाधपाण्डित्यवशादेवाचार्यवर्यमिमं जनाः 'कलिकाल सर्वज्ञ' इति सम्मानेन परिचाययन्ति । छन्दोरत्नमाला - परिचयः 'छन्दोरत्नमाला' प्राचार्य श्री विजय सुशील सूरीश्वरस्य छन्दोविषयिषो सरला, सरसा, सारावगाहिनी कृतिरस्ति । अस्याः रचनायाः प्रारम्भे भगवन्तं महावीरं, गणधर गौतमसुधर्मारणो शासनसम्राजं श्रीनेमिसूरीश्वरम्, शास्त्रविशारदं श्रीमल्लावण्यसूरीश्वरं, स्वगुरु दक्षसूरीश्वरं नत्वा, नमस्कारात्मकं मङ्गलाचरणमाचरितम् । ग्रन्थोऽयं त्रिषु स्तबकेषु विभक्तः । प्रथमस्तबके - नमस्कारात्मक - मङ्गलाचरण-पुरस्सरं छन्दसां लक्षणं, छन्दःशब्दार्थः, छन्दसां भेदा: लघुगुरुवर्णज्ञानं, मात्राज्ञानं, युगायुक्संज्ञावबोधः, गणज्ञान, मात्रागणा : यतिगत्योरवबोधश्च विषयाः छन्दोभेदज्ञानतालिकापुरस्सरं सरलभाषया प्रामाणिक रूपेण पिङ्गलानुसारेण, आचार्यश्री हेमचन्द्रानुसारेण च समीचीनतया समुपवरिताः सन्ति । द्वितीयस्तबके - मात्रिकच्छन्दसां वर्णनं लक्षणोदाहरणपुरस्सरं सुष्ठुरूपेण कृतम् । अत्र खलु 'एकविंशतिछन्दसां लक्षणानि तेषामुदाहरणानि च वरिणतानि वर्तन्ते । सरलार्थो - दाहरणाभ्यां अस्य ग्रन्थस्य शोभा जागर्ति । तृतीयस्तबके - श्री स्त्री-मद-नारी मृगी मदन कन्या- सुमतिपंक्ति - प्रोति- मध्या शशिवदना- विद्युल्लेखादीनां बहूनां प्रसिद्धानां वारिणक छन्दसां लक्षणम्, उदाहरणम्, स्वरचितोदाहरणानि तालिका निदेशपुरःसराणि सुन्दररीत्या प्रस्तुतानि ( १६ )
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy