________________
'यथा यथोपयुनक्ति तथा तथा परिष्कृतिर्भवति' इति सिद्धान्तानुसारेण छन्दःशास्त्रस्य विकासोऽजनि। यथा-विश्ववाङ्मये जैनाचार्यै गृहस्थमनीषिभिश्च विशिष्टं योगदानं विहितं तथैव छन्दःशास्त्रविषयेऽपि । ___पिङ्गलकृते छन्दःशास्त्रेऽष्टौ 'अध्यायाः' सन्ति । तदनन्तरं च छन्दःशास्त्रविकासपरम्परायां क्षेमेन्द्रकृतं 'सुवृत्ततिलकम्', केदारभट्टकृतो 'वृत्तरत्नाकरः', श्रीगङ्गादासरचिता 'छन्दोमञ्जरी', कालिदासकृतः श्रुतबोधः, अन्यैश्च कृता विविधाः 'छन्दः प्रबोधिनी' त्यादयो ग्रन्थाः समुल्लसन्ति ।
कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यः जैनाचार्येषु कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यः साहित्यस्य प्रत्येकशाखायां - व्याकरण - कोशच्छन्दोऽलङ्कार - काव्य-न्यायतत्त्वज्ञान-योगप्रभृतिविषयानधिकृत्य प्रौढानां निर्मातृत्वेन सुप्रसिद्धः। छन्दःशास्त्रेऽस्य 'छन्दोऽनुशासनम्' नाम प्रौढं ग्रन्थरत्नम् । प्राचार्योऽयं गुर्जरप्रदेशस्य 'धुन्धुका' नाम्नि ग्रामे वि.सं. ११४५ तमवर्षस्य कार्तिकपूणिमायां तिथौ जन्म प्राप्तवान् । अस्य मातुर्नाम 'चाहिरणी' (पाहिणी चंगी) पितुर्नाम च 'चच्च' (चाचिग, चाच) इत्यास्ताम् । मोढजातीयवरिणग्वंशे समुत्पन्नस्यानयोर्बालकस्य नाम 'चङ्गादेवः' 'चांगदेव' इति वा निर्धारितं जातम् ।
वि. सं. ११५४ (अथवा ११५०) तमे वर्षे श्रीदेवचन्द्रसूरेर्दीक्षां गहोत्वा चंगदेवः 'सोमदेव' नाम्नाऽऽम्नातः वि. सं. ११६२ (अथवा ११६६) तमे वर्षे च सूरिपदं प्राप्य 'हेमचन्द्राचार्य' नाम्ना ख्यातिमगात् । श्रीहेमचन्द्राचार्यस्य वैदुष्येण श्रीसिद्धराजजयसिंहस्तथा कुमारपाल उभावपि तुतुषतुः प्रभावितौ चाभूताम् ।
( १५ )