________________
मात्रिक - वारिंग कछन्दसां समम्, अर्धसमम्, विषमञ्चेति भेदेन त्रयस्त्रयोभेदाः प्राप्यन्ते । समवृत्ते – इन्द्रप्रजादोनि । अर्धसमवृत्तेवैतालीयादीनि विषमवृत्ते - श्रार्येत्यादिवृत्तानि । पिङ्गलशास्त्रेवृत्तरत्नाकरादिमूर्धन्यछन्दः शास्त्रेषु एतेषां लक्षणानि प्रतिपादितानि सन्ति ।
वृत्तरत्नाकरानुसारेण समार्धसमविषमछन्दसां लक्षणानि
चेत्थम्—
समवृत्तलक्षरणम्
यो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दः शास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥
अर्धसमवृत्तलक्षरणम्
प्रथमाद्रिसमं यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद् वृत्तं, तदर्धसममुच्यते ॥
विषमवृत्तलक्षणम्
यस्य पादचतुष्केऽपि, लक्ष्मभिन्नं परस्परम् । तदाहुविषमं वृत्तं छन्दः शास्त्रविशारदाः ॥
छन्दःशास्त्रविकासे जैनानां योगदानम्
'आवश्यकतैवाविष्काराणां जननीति' - दृष्टयाऽकारणकरुणावरुणालयैरनुकम्पापरवशैराचार्यै हितावह दृष्ट्या छन्दसामनुसन्धानपूर्वकं सकलनं विधाय तेषां तेषाञ्च लक्षणोदाहरणसंवलितं ललितं छन्दः शास्त्र रचितम् । अत्र च पिङ्गलाचार्याः, भट्टकेदाराः कलिकाल सर्वज्ञाः श्रीहेमचन्द्राचार्याः इत्यादीनां स्मरणं किमपि कमनीयं जीवनरसमिवापूरयति सचेतसां चेतस्सु ।
( १४ )