SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मात्रिक - वारिंग कछन्दसां समम्, अर्धसमम्, विषमञ्चेति भेदेन त्रयस्त्रयोभेदाः प्राप्यन्ते । समवृत्ते – इन्द्रप्रजादोनि । अर्धसमवृत्तेवैतालीयादीनि विषमवृत्ते - श्रार्येत्यादिवृत्तानि । पिङ्गलशास्त्रेवृत्तरत्नाकरादिमूर्धन्यछन्दः शास्त्रेषु एतेषां लक्षणानि प्रतिपादितानि सन्ति । वृत्तरत्नाकरानुसारेण समार्धसमविषमछन्दसां लक्षणानि चेत्थम्— समवृत्तलक्षरणम् यो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दः शास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ अर्धसमवृत्तलक्षरणम् प्रथमाद्रिसमं यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद् वृत्तं, तदर्धसममुच्यते ॥ विषमवृत्तलक्षणम् यस्य पादचतुष्केऽपि, लक्ष्मभिन्नं परस्परम् । तदाहुविषमं वृत्तं छन्दः शास्त्रविशारदाः ॥ छन्दःशास्त्रविकासे जैनानां योगदानम् 'आवश्यकतैवाविष्काराणां जननीति' - दृष्टयाऽकारणकरुणावरुणालयैरनुकम्पापरवशैराचार्यै हितावह दृष्ट्या छन्दसामनुसन्धानपूर्वकं सकलनं विधाय तेषां तेषाञ्च लक्षणोदाहरणसंवलितं ललितं छन्दः शास्त्र रचितम् । अत्र च पिङ्गलाचार्याः, भट्टकेदाराः कलिकाल सर्वज्ञाः श्रीहेमचन्द्राचार्याः इत्यादीनां स्मरणं किमपि कमनीयं जीवनरसमिवापूरयति सचेतसां चेतस्सु । ( १४ )
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy