________________
॥ विमर्श-वेदिका ॥
साहित्य नामाऽलौकिकानन्दकारण सकल सुखसाधक दुःखराहित्यनिदान वरावत्ति नात्र मनागपि सन्देहस्यावकाश : । साहितस्य भावः साहित्यम् । अत्र हि दिवादिगणाक्तस्तृप्त्यर्थकः षहधातोः क्तप्रत्ययो विहितः । साहित्यस्य विविधाः रचना: दरादृश्यन्ते, संस्कृतसाहित्यक्षेत्र काव्य-कोश-छन्दोव्याकरणादिदृष्टया । अत्र वय छन्दःशास्त्रस्य विषये किमपि वक्तुमुत्सुकाः । छन्दोरचना
पद्यरचनासन्दर्भे छन्दसां ज्ञानं सुतरामावश्यक वरीवत्ति । यस्यां रचनायां मात्राणां, वर्णानां, गणानां, लघुगुरुवर्णानां, विरामाणाञ्च विचारः प्रस्तूयते सषा छन्दःशास्त्रपद्धतिः ।
छदयति रसभावादीन् यत् तच्छन्दः संस्कृतभाषायां वैदिक-लौकिकभेदेन छन्दसां द्वविध्यमुक्तम् । अत्र खलू लौकिकछन्दसां निदर्शनमपेक्ष्यते । छन्दःशास्त्रस्याचार्यः श्रीपिङ्गलो मात्रावर्णभेदेन छन्दसां वैविध्यं स्वीकृतवान् । मात्रिक छन्दः
यस्यां पद्य रचनायां मात्राणां गणना क्रियते तन्मात्रिक छन्दः । अत्र खलु मात्रिक छन्दोरचनायां प्रत्येकपादे वर्णाः समानाः असमानाः अपि भवन्ति । यथा-प्रार्यादिवृत्तम् । वारिणकं छन्दः
गणनिर्देशप्रयुक्तानां वर्णानां यत्र समोचीनतया समायोजन भवति तद् वाणिक छन्दः । यथा-इन्द्रवज्रादिवृत्तम् ।
( १३ )