SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ नाम प्रसिद्धमस्ति । अर्थात्-यत्र रसैः षड्भिस्ततो रुद्ररेकादशभिश्छिन्ना विरतिर्यत्र च यगण मगण नगण सगण भगणलघवो गुरुश्च सा शिखरिणी नाम छन्दः स्यात् । अत्र षष्ठे एकादशे च यतिर्जायते । उदाहरणम्हरन् सर्वाम्भोज श्रियमविरतं सिन्धुपतिना कृतार्थस्तत्वानो निशि तमसि विद्योतमसमम् । सुधांशुस्तवंशे त्वमिव जयसिंहक्षितिपते रुक्षा पूर्णः पश्योदय शिखरिणी हाभ्युदयते ॥ अथवायदा पूर्वो ह्रस्वः कमलनयने षष्ठकपरा स्ततो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः । त्रयोऽन्ये चोपान्त्याः सुतनु जघनाभोगसुभगे , रसै रुद्रर्यस्यां भवति विरतिः सा शिखरिणी ।। [ इति श्रुतबोधे श्लोक ४० ] यथातपस्तप्त्वा क्षिप्त्वा कलुषकटुकर्माण्यधिगतो, यदीयच्छायायां त्वमसमशमः केवलविदम् । तरुधर्मक्षेत्रे स खलु विहितः पञ्च गुणवा नपि स्थाने देवैः सपदि भवतो द्वादशगुणः ।। छन्दोरत्नमाला-१२६
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy