________________
नजी भजो रसहितौ प्रभद्रकम्"। न. ज. भ. ज. र. । 1. IsI. S. Is1. SIS. इति लक्षणपदमेतत् ।
सरलार्थः-यत्र क्रमशः प्रतिपादं नगण-जगण-भगणजगण-रगणानां वर्णा विलसन्ति, तस्य प्रभद्रकं नाम प्रख्यातं भवति । अर्थात्-यत्र नगण-जगणौ भगण-जगणौ रगणसहितौ तदा प्रभद्रकं नाम छन्दो भवति । अत्र सप्तमेऽष्टमे च यतिर्जायते ।
उदाहरणम्जगति जगत्त्रयोपकृतिकारणोदयो ,
जिनपतिभानुमानुपरमधामतेजसाम् । भविक - सरोरुहं गलितमोहनिद्रकं ,
भवति यदीय पादलुठनात् प्रभद्रकम् ।। छ. ।
प्रथवा
भज भज शङ्करं गिरिजया समन्वितम् ,
त्यज भवबन्धनं विरसतावसानकम् । उपनिषदां मतं मनसि धेहि सन्ततं ,
गुरुकृपया सदा भवतु ते प्रभद्रकम् ।।
छन्दोरत्नमाला-१२१