________________
(८८) "वसुमुनियतिरिह मरिणगुणनिकरः"। न.न. न. न. स. । ।. .. ।।। ।।5. इति लक्षणमेतत् ।
सरलार्थः-यत्र क्रमशः प्रतिचरणं पूर्वोक्त छन्दसि स्रजि यदि सप्तभिरष्टभिश्च यतिर्भवति तदा इदमेव 'मरिणगुणनिकर' इति नाम्ना प्रसिद्धयति । अर्थात्-इह अस्यां शशिकलायामष्टसप्तभिर्यतिस्तदेयं मणिगुणनिकरः छन्दः स्यात् ।
उदाहरणम्--
गवेषणीयमत्र ।।
(८६) "ननमयययुतेयं मालिनी भोगिलोकः"। न. न. म. य. य.। . . sss. Iss. Iss. इति लक्षणपदमिदम् ।
सरलार्थः-यत्र क्रमशः प्रतिपादं नगण-नगण-मगणयगण-यगणानां वर्णा भवन्ति, तस्य मालिनी नाम विज्ञेयम् । अर्थात्-यत्र नगण-नगण-मगण-यगण-यगणाः अष्टभिः सप्तभिश्च विरामः सा मालिनी छन्दः। अस्य नन्दीमुखीत्यपरं नामापि भरतेन कथितमस्ति ।
छन्दोरत्नमाला-११८