________________
अथातिशक्वरी भेदाः ( १५ पञ्चदशाक्षरकारिण सर्वारिण )
( ८६ ) " नी सौ शशिकला " । अथवा - " द्विहतहयलघु रथ गिति शशिकला " । न. न. न. न. स. । III. III. ।।।. ।।।. ।।5. लक्षण पदमिदम् ।
सरलार्थः - यत्र प्रतिपादं क्रमशश्वत्वारो नगणास्तदुत्तरमेकः सगणो भवति, तस्य शशिकला नाम प्रसिद्धयति । अथवा
पञ्चदशाक्षरायां शक्वर्यां द्विहता द्वाभ्यां गुणिता हयाः सप्तजाताश्चतुर्दश प्रागेव तावन्तो लघवस्तदनु एको गुरुः इत्यनेन प्रकारेण शशिकला नाम छन्दो भवति ।
उदाहररणम्
अरतिमति हि मम वपुंषि विदधतीं
,
तिरयसि यदि नवजलदशशिकलाम् ।
स्वयमपि किमिति न कलयसि करुरणां,
अथवा
यदिह विरचयसि कटुरसितमहो । छ. ।।
मलयजतिलकसमुदित शशिकला
,
व्रजयुवति लसदलिकगगनगता ।
सरसिजनयनहृदयसलिलनिधि,
व्यतनुत विततरभस परितरलम् ।।
छन्दोरत्नमाला - ११६