________________
उदाहरणम्बहुभिः किमालपितैः कुधियां ,
सरसाभिधेय - घटना - रहितः । रसभावभावितधियां हि वरं ,
प्रमिताक्षरापि रचनार्थवती ।। छ. ।।
अस्यापरं नाम चित्राप्यस्तीति कविमतम् ।
(७६) “पश्चाश्वश्छिन्ना वैश्वदेवी ममौ यो"। अथवा-"मौ यौ वैश्वदेवी डै:"। म. म. य. य.। sss. sss. Iss. Iss. लक्षणपदमेतत् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः मगणद्वयं यगणद्वयञ्च भवति, तस्य वैश्वदेवी नाम विज्ञेयम् ।
अस्य चन्द्रकान्तेत्यपि नामान्तरमिति कविमतम् ।
उदाहरणम्अर्चामन्येषां त्वं विहायामराणा
मद्व तेनैकं विण्णुमभ्यर्च्य भक्त्या। तत्राशेषात्मन्यचिते भाविनी ते ,
भ्रातः सम्पन्नाराधना वैश्वदेवी ।।
छन्दोरत्नमाला-१०६