________________
यत्र रगण-नगण-भगणाः गुरु-युग्मं च सा स्वागता इति ।
उदाहरणम्वल्लभं सुरभिमित्रमतङ्ग,
दाक्षिणात्यपवनं सुहृदं च । पृच्छतीह परपुष्ट - विधुष्टः,
स्वागतानि नियतं वनलक्ष्मीः ।। छ. ।।
अथवारत्नभङ्गविमलैर्गुणतुङ्ग
रथिनामभिमतार्पणशक्त : स्वागताभिमुखनम्रशिरस्कै
___ीव्यते जगति साधुभिरेव ॥ १ ॥
यथाइन्दुकुन्दधवलामिति कीति,
कीर्तयामि कियती तव नाथ ! । मन्दबुद्धिरपि किञ्चन वच्मि,
त्वद् गुणौघमुखरीकृतजिह्वः ।।
छन्दोरत्नमाला-८४