________________
(५०) "पञ्चरसैः श्री र्भ त न ग गैः स्यात्" भ. त. न. ग. ग.। . . . . . लक्षण पदमेतत् ।
___ सरलार्थः-यत्र प्रतिचरणं क्रमशः भगण-तगणनगणोत्तरं गुरुवर्ण द्वयं तिष्ठति तस्य छन्दस्य श्रीः नाम प्रसिद्धयति । इयं श्रीरेव अग्रे मौक्तिकमाला नाम्ना प्रख्याताऽस्ति ।
उदाहरणम्या सुजनानामुपकाराय ,
प्रद्विषतां च प्रतिकरणाय । मानधनानां मनसि नराणां ,
श्रीरितरा स्यात् परिकरमात्रम् ।।छ.॥
अथवा
शोभनवर्णा सुविशदजातिः ,
सुक्रमराजद् गुरुलघुयुक्ता । सद्यति रम्यो बुधहृदि छन्दो ,
मौक्तिकमाला विलसति हृद्या ।।
छन्दोरत्नमाला-८०