________________
नागोजिभट्ट-पर्यालोचित भाष्यसम्मत अष्टाध्यायीपाठ ५५
[७।२।३४] ग्रसितस्कभित-इति सूत्रे 'क्षरिति' इत्युत्तरं 'क्षमिति' इति केचित् पठन्ति ।'
[७।२।४८] तीषसहलुभ - 'तीषु' इत्यपपाठः ।' [७।२।६० [ तासि च कृपः-'क्लृपः' इति [ अपपाठः] । .
[७।२।७०,७१[ ईशस्से ईडजनो ध्वे चा च' इति वृत्तौ ५ पाठः।"
[७।२।८० अतो येयः-'अतो या इयः' इति पाठो मुक् [७।२। ८२] सूत्रभाष्ये ।
[७।३।१०] उत्तरपदस्य-अत्र 'च' सहितः पाठो वृत्तौ । । [७।३।७५] ष्ठिवुक्तमुचमां शिति-'क्लम्याचमां शिति' इत्य- १०
[७।३।७७] इषगमियमां छ:-'इषुगमि' इत्यपपाठः । .
[७।३।११७,११८,११६] इदुद्भ्यामौदच्च घेः-अत्र सूत्रत्रययोगविभागो भाष्ये।
॥ इति सप्तमोऽध्यायः॥ १. अत्र 'क्षमितिरहितः' रितिवमिति' इत्येव पाठो भाष्यानुगुण इति कथं निरधारि नागोजिनेति न ज्ञायते ।
२. अत्रतत्सूत्रस्य काशिकावृतिर्भाष्यप्रदीपं चावलोकनीयम् । .
३. 'कृपः' इति पाठो भाष्यकाराभिमत इति कथं विज्ञायि नागेशेनेति नोक्तम् । अपि च 'कलप इति' इत्यस्य को भाव इति न ज्ञायते । अत्र कदा- २० चित् 'अपपाठः' पद नष्टं स्यात् । द्रष्टव्यः- कृपो रो लः (८।२।१८) सूत्रविषयको लेखः।
४. कथमिमी पाठी भाष्यसम्मताविति नोक्तं नागेशेन । भाष्यप्रदीपोद्योते तु अत्र इडजनो: स्ध्वे च' इति पाठो भाष्य इत्युक्तम् ।।
५. पाने मुक् (७।२।८२) इतिसूत्रभाष्ये 'अतो येय इत्यत्र अकारग्रहणं २५ पञ्चमीनिर्दिष्टम्' इत्यस्य स्थाने 'अतो या इय इत्यत्र प्रकार:.......' इत्यपि पाठान्तरमुपलभ्यते । तदाश्रित्योक्तबचनं नागेशस्येति ज्ञेयम् ।
६. मुद्रितायां काशिकावृत्तौ चकाररहित एब पाठ उपलभ्यते ।
७. भाष्ये नागोजिना निर्दिष्ट एव पाठ उपलभ्यते। एतत्सूत्रभाष्यप्रदीपस्तदुद्योतश्च द्रष्टव्यः।
८. अत्रतत्सूत्रभाष्यप्रदीपस्तदुद्योतश्चावलोकनीयः । ६. अयं भाव:- 'डेराम्नद्याम्नीभ्य इदुद्भ्याम्' इत्येकयोग आसीत् । तस्य