________________
नागोजि भट्ट पर्यालोचित भाष्यसम्मत अष्टाध्यायीपाठ
[६।१।१५० इत्यनन्तरम् ] कारस्करो वृक्षः - इति प्रक्षिप्तम् ।' [६।१।१५८, १५९ ] तद्धितस्य कित: - योगविभागोऽत्र भाष्ये ।' [६।२।५२] श्रनिगन्तोऽञ्चतावप्रत्यये - 'तौ व' इति वृत्तौ । " [६।२।९२,ε३] ग्रन्तः सर्वं गुण कात्स्न्यें - योगविभागोऽत्र वृत्तौ । * [६।२।१०७] उदाराश्वेषुषु क्षेपे - योगविभागोऽत्र वृत्तौ [६।२।१०९] निष्ठोपसर्गपूर्वावन्यतरस्याम् – 'पूर्वमन्य' इति - पाठान्तरम् ।
५
५.३.
[६।२।१४२, १४३] ग्रन्तः थाथ - इत्यत्र योगविभागों वृत्तौ । [६ | ३|६ ] आत्मनश्च - 'पूरणे' इति वार्तिकम् । आत्मनश्च पूरणे' सर्वमेव वार्तिकमिति हरदत्तः ।
१०
१. पारस्करादिगणे (६।१।१५१ ) 'कारस्करो वृक्ष:' इति गणसूत्रस्य दर्शनात् ।
२. अत्र 'गोत्रे' कुञ्जादिभ्यश्च्फञ' (४।१।१८) सूत्रस्य भाष्यं प्रमाणम् । ३. नागेशेन 'तावप्रत्यये' इति भाष्यानुगुणः पाठ इति कुतो विज्ञायीति न ज्ञायते । अस्यैव सूत्रस्य भाष्ये 'चोरनिगन्तोऽञ्चतो व प्रत्यये' इति वार्तिके १५ तद्वयाख्याने चोभयविध: पाठ उपलभ्यते । श्रत्र कीलहार्न संस्करणेऽन्ते पाठभेदौ' द्रष्टव्यौ । '४. अनयोरेकसूत्रत्वे प्रमाणं नोपन्यस्तं नागेशेन । अत्रानयोः सहनिर्देशादेकसूत्रमिति भ्रान्तो नागेश इति सम्भाव्यते ।
५. अत्रैव सूत्रे 'उदराश्वेषुषु क्षेपे' त्येतस्मान्नम् सुभ्यामित्येतद् इविप्रतिषेधेन इति पाठदर्शनादेकसूत्रत्वमनुमितं स्यान्नामेशेन । अत्रस्थ: प्रदीपोद्योतोऽपि २०
द्रष्टव्यः ।
६. ' ० पसर्ग पुर्वावन्य०' इति भाप्यानुगुणः पाठ इति कुतो विज्ञायि नागेशेनेति नोक्तम् ।
७. भाष्येऽत्र 'अन्तः' इत्येव सूत्रं व्याख्यायते । कदाचिद् "ग्रहवृदृनिश्चिगमश्च' ( ३।३।५८ ) सूत्रभाष्ये उभयोः सहपाठाद् भ्रान्तोऽत्र नागोजिभट्ट: ।
८. 'प्राज्ञायिनि च' (६।३।५ ) इति सूत्रभाष्यप्रदीपोद्यते कृत्स्नस्यैव वातिकत्वं ब्रूते नागेशः । तदेवं स्ववचोविरोधादेकतद् चिन्त्यम् । अयं भाष्यसम्मतः सूत्रपाठः कदाचिदुद्योतारं पूर्वं निर्मितं स्यात् । अपि च ' वैयाकरणाख्यायाम्' (६।३।७ ) इत्यत्र 'परस्य च' शब्देन इति चेन रशब्दप्रतिद्वन्द्वितया ग्रात्मशब्दस्यैव ग्रहणम् । तदुभयं चैकसूत्रमित्याहु:' इत्युक्तम् ।
1
९. श्रस्य सूत्रस्यैव वृत्तिव्याख्यायां पदमञ्जर्यामाह हरदत्तः ।
२५