SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३/७ नागोजिभट्ट-पर्यालोचित भाष्यसम्मत अष्टाध्यायो ४६ [४।२।२] लाक्षारोचनाट् ठक्-'शकलकर्दमाभ्याम्' इति प्रक्षिप्तम् । [४।२।४१] ब्राह्मणमाण ..."यन्–'यत' इति त्वपपाठः।' [४।२।४२] ग्रामजनबन्धुभ्यस्तल्-‘गजसहाय' इति प्रक्षिप्तम् ।' [४।२।१२६] कच्छाग्निवक्त्रवर्तोत्तरपदात्-'गर्त' इत्यपपाठः। ५ 'जनपदतदव०' [४।२।१२३] इति सूत्रभाष्ये स्पष्टम्'। [४।३।११७,११८] संज्ञायां कुलालादिभ्यो वुन्-योगविभागोऽत्र भाष्यकृतः। [४।३।१३१ इत्यनन्तरम्] 'कौपिञ्जल' इति 'पाथर्वणिक' इति द्वे वार्तिके प्रक्षिप्ते । [४।३।१४०] शम्याः ष्टलन् । [४।३।१४६] नोत्त्वद्वर्धबिल्वात्-वर्ध' इति द्विः । [४।४।१७] विभाषा विवधात्-'वीवध' इति प्रक्षिप्तम् । [४।४।४२] प्रतिपथमेति [ठंश्च]-'ठञ् च' इति द्विः । । २० इति, 'अपत्यं पौत्रप्रभृति'० [४।१।१६२] सूत्रभाष्ये 'जीवाश्यं च कुत्सितम्' १५ इति वार्तिकदर्शनादिति भावः। १. अत्रैव वार्तिकदर्शनादिति शेषः । २. काशिकावृत्तावप्ययमेव पाठः, केषुचिद् हस्तलेखेषु यत्' पाठो दृश्यते । ३. अत्रैव सूत्रभाष्ये तादृग्वचनस्य दर्शनात् । ४. द्रष्टव्योऽत्र लघुशब्देन्दुशेखरः (भाग २, पृष्ठ २६०) । ५. अत्रैव सूत्रभाष्ये योगविभागः करिष्यते' इति वचनात् । ६. रैवतिकादिभ्यश्छ: [४।३।१३१] सूत्रभाष्ये वार्तिकपाठात् ।। ७. अत्र 'जितश्च तत्प्रत्ययात्' [४।१।१५३] भाष्यप्रदीपोद्योते 'भाष्यप्रामाण्यात् ष्लनः टित्त्वस्यैवाङ्गीकारान्न दोषः' इति नागेशवचनमनुसन्धेयम् । तुलनीयम्-'प्लज' अत्र टित् प्रत्ययः । लघुशब्देन्दुशेखरः (भाग २, पृष्ठ २८०) -८ द्वि:प्रकारकोऽपि पाठः प्रामाणिक इति भावः । अयं पाठ: ४।२।१२४ , सूत्रभाष्येण द्योत्यते। ६. अत्रैव भाष्ये वार्तिकदर्शनात् । १०. अत्र द्विः पदेन किमभिप्रेतमिति न ज्ञायते । अत्र 'वृत्तौ त्वेतद् विहितप्रत्ययो नियुक्तः' इति लघुशब्देन्दुशेखरे (भाग २, पृष्ठ २८७) नागेशः । एतद् व्याख्याने भैरवमिश्र आह- 'तेनादिवृद्धिरहितमुदाहरणं युक्तम्' इति । सम्भवत उभयथाऽपि पाठोऽत्र नागेशाभिप्रेतः स्यात् । -
SR No.002284
Book TitleSanskrit Vyakaran Shastra ka Itihas 03
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherYudhishthir Mimansak
Publication Year1985
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy