________________
(८२) अनेकार्थसंग्रहः सटीकः
wwwwwwwwwwwww मण्डने हस्तसूत्रे च कल्याणं हेम्नि मङ्गले ।
* कत्तृणं रोहिणं फङ्गा करेणुस्तु मतङ्गजे ॥१८६॥ शूद्राविट पुढे । शूद्रायां वैश्याज्जाते इत्यर्थः । कङ्कणं करभूषणे । मण्डने हस्तसूत्रे च । ककुड्गतौ । कते कङ्कणम् । तकश (उ० १८७) इति अणः । पुंक्लीबः । करभूषणे यथाउद्वेल्लद्भुजवल्लि-कङ्कण-झणत्कारस्तदादुः सहः ।।१८५।। मण्डने प्रसाधने यथा- मसृण-घुमृणपङ्कः कुर्वते कङ्कणानि । हस्तसूत्रं प्रतिसरः । तत्र यथा-कङ्कणमोचनाय गच्छामि । शिरोभूषणेऽपि । यथा-सिन्दुरितानेकप-कङ्कणाङ्किता तरङ्गिणी वेणिरिवायता भुवः । कल्याणं हेम्नि मङ्गले । कल्यते कल्याणम् । कल्याणपर्याणादयः (उ० १९३) इति साधुः । द्वयोर्यथायत्कल्याणं तस्य तु वह्नि विशतोऽपि कल्याणम् । कत्तृणं रौहिषं फङ्गा । कुत्सितं तृणमस्य कत्तृणम् । “तृणे जातौ" (३-२-१३२) इति कोः कदादेशः रौहिषं तृणजातिः। फङ्गा शाकविशेषः । द्वयोर्यथा-तं मुष्टिभिः कत्तृणवत्पुपोष । करेणुस्तु मतङ्गजे । द्विरदस्य च योषायां कर्णिकारतरावपि कृणोति करोति वा करेणुः । कृहभू (उणादि ७७२) इति एणुः । के मूनिरेणुरस्य वा । मतङ्गजे तद्योषायां च स्त्रीपुंसः । कर्णिकारतरौ पुंसि । मतङ्गजे हस्तिनि यथा-करेणुः प्रस्थितोऽनेको रेणु
* अरणिस्तु भवेदग्निमन्थे निर्मन्थ्यदारुणि ॥ इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः । इरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि ।। उषणा तु कणायां स्यादूषणं मरिचे मतम् । एषणी व्रतमार्गानुसारिण्यां च तुलाभिदि ॥ कङ्कणं करभूषायां हस्तसूत्रे च शेखरे । कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले ॥