________________
- तृतीयः काण्ड:
गीताङ्गहारसंवेश-भिक्षुकायस्थ संहतौ । वर्णानांस्पृष्टतादौ च योगिनामासनादिषु । ॥१८४॥
हृषीके साधकतमे बवादौ च कृतावपि ॥ - करणःशूद्राविट पुत्रे कङ्कणं करभूषणे । ॥१८॥ वाच्यलिङ्गः । यथा-करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु । करुणा तु कृपायां स्यात् । कृपा दया तत्र यथा-करुणाभराञ्चितपुटा वीरस्य वो दृष्टयः । करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेश-भिक्षुकायस्थ-संहतौ । वर्णानां स्पृष्टतादौ च योगिनामासनादिषु हृषीके साधकतमे बवादौ च कृतावपि। क्रियतेऽनेन कृतिर्वा करणम्। किरति कीर्यते वा । त क श (उ०१८७) इति अणः। क्षेत्र केदारः। तत्र यथाग्रन्थिपर्णकिरणेषु विचेरुः। गात्रे यथा-उपमानमभूद्विलासिनां करणं यत्तव कान्तिमतया ॥१८३॥ गीतभेदे यथा-तत्रलाकरणं ढिकी वर्तनी ज्याम्बडस्तथा । अङ्गहारभेदः । स्थिर-हस्तपर्यस्ततारकादित्रिंशत्प्रकारः। तत्र यथा-करणरुल्वणः केयं भ्रातर्नृत्यति नर्तकी । संवेशो निधुवनं तस्य भेदो वात्स्यायनोक्तः। तत्र यथा-नवनवकरण-परायण-रमणी-लीलारसेन तरुणानाम् । कायस्थोऽध्यक्षादेरुपलक्षणं तेषां संहतिः समूहः । तत्र बबबालवादी च यथा-करणं करोतु राजन् सकले भुवने त्वदीय करणानि । वर्णानां स्पृष्टतादौ यथा-स्पृष्टं करणं स्पर्शानाम् । योगिनामासनादिषु यथा-करणानि पुनर्भद्रासनादीनि विदुर्बुधाः ।।१८४।। हृषीके इन्द्रिये यथा-आख्यातमन्तः करणविज्ञङ्कः । साधकतमे यथायेन क्रियते तत्करणम् । कृतौ यथा-सर्वोपकार-करण-कपरामणेन । कायस्थे इत्येके । कायस्थकर्मणि इत्यपरे । करणः