________________
(८०) अनेकार्थसंग्रहः सटोकः
अभीक्ष्णं तु भृशं नित्यमिरिणं शून्य ऊषरे ॥ इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा ॥१८२॥ कणोषणं तु मरिचं करुणो रसवृक्षयोः ।
करुणा तु कृपायां स्यात्करणं क्षेत्रगात्रयोः ॥१८३।। सान्ध्यद्युतौ यथा-अरुणेन कृताः सायं दिशः कौसुम्भवाससः । बुघे सौम्ये यथा-सम्प्रत्यप्राच्च्यामरुणः समुद्गतः । क्रुष्टे क्रुष्टभेदे यथा-अरुणालिङ्गितं वपुः। निःशब्दः शब्दरहितः। अव्यक्तरागेऽव्यक्तलौहित्ये यथा - निद्राविगमारुणलोचनायाः । लोहि. तेऽपि । यथा - परिसरणमरुणचरणे रणरणकमकारणं कुरुते । अरुणा त्रिवृत्तिश्यामामञ्जिष्ठाऽतिविषासु च । चतस्त्रोऽप्योषधयः । स्त्रियाम् ।।१८१।। अभीक्ष्णं तु भृशं नित्यम् । अभीक्ष्यते अभीक्ष्णम् । भ्रूणतृणेति साधुः। द्वयोर्यथा-अभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम् । इरिणं शून्य ऊषरे । ऋश् गतौ । ऋणाति इरिणम् । ऋद्रुहेः कित् । (उ० १९५) इति इणः । शून्ये वाच्यलिङ्गः । ऊषरेऽप्यन्ये । द्वयोर्यथा-संसारे रिणकल्पवृक्षभवतः पादारविन्दद्वयम् । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽपि । इन्द्रस्य भार्या इन्द्राणी। वरुणेन्द्ररुद्र (२-४-६२) इति डीः। आन् वांतः । इन्द्रोऽप्यनित्यनया वा। शच्यां यथा-सिञ्चन्ति नित्यमिन्द्राण्यो घुसृणैरावणाङ्गम् । अथोषणा। कणा । ओषति उषणा। नन्दयादित्वाद् अनः ।।१८२।। कणा पिप्पली। ऊषणं तु मरिचं । मरिचं कृष्णम् । करुणो रसवृक्षयोः । कीर्यते करुणः। ऋक व धृदारिभ्य उणः। (उ० १९६) रसे यथा - शृङ्गारहास्यकरुणारौद्रवीर - भयानकाः । वृक्ष यथा-तरुणकरुणवल्ली फुल्लमुल्लासयन्त्यः । दीनेऽपि । तत्र