________________
तृतीयः काण्डः
(७९)
वारुढः शम्बले वस्त्राञ्चलेग्नौ पञ्जरेऽररौ । विरूढोऽङ्कुरिते जाते विगूढो ग_गुप्तयोः ॥१७९॥ समूढः पुञ्जिते सद्योजाते भुग्नेऽनुपप्लुते । संरूढोऽङ्कुरिते प्रौढेरुणोऽर्केऽनूरुपिङ्गयोः* ॥१८०॥ सन्ध्यारागे बुधे क्रुष्टे निःशब्दाव्यक्तरागयोः ।
अरुणा त्रिवृत्तिश्यामामञ्जिष्ठाऽतिविषासु च । ॥१८१॥ ति स्म विरूढः । वाच्यलिङ्गः । अङ्करिते यथा-शतावरी विरूढानि गुडुचीकोमलाम्लिका । जाते यथा-गङ्गप्रवाहाम्बु विरूढशष्पं गौरीगुरोर्गह्वरमाविवेश । विगूढो . गीगुप्तयोः । विगृह्यते स्म विगूढः । वाच्यलिङ्गः । द्वयोर्यथा-प्रकाशयेन्नैव विगूढकार्यम् । ।।१७९।। समूढः पुञ्जिते सद्योजाते भुग्नेऽनुपप्लुते । समुह्यते स्म समूढः । वाच्यलिङ्गः । चतुर्वपि यथागूढः समुज्झति समूढः तृणां धरित्रीम् । पक्वेऽपि वल्लभटीका यथासमूढकर्पूरपरागपाण्डुरम् । संरूढोऽङ्करिते प्रौढे । संरोहति स्म संरूढः । वाच्यलिङ्गः । द्वयोर्यथा-हाग्रसंरूढतृणाङ्करेषु । तेजोविष ह्यं रिपुमन्दिरेषु । अथ णान्ताः । अरुणोऽकनूरुपिङ्गयोः । सन्ध्यारागे बुधे क्रुष्टे निःशब्दाव्यक्तरागयोः । इयति अर्यते वाऽरूणः । ऋकवृधृदारिभ्य उणः । पिङ्गा व्यक्तरागयोर्गुणयोः पुंसि । तद्वति निःशब्दे च वाच्यलिङ्गः। अर्के यथा-अरुणकरोद्गम एष वर्त्तते । अनूरौ सौर्यसारथौ । यथा-कह्नाय तावदारुणेन तमो निरस्तम् । पिङ्गे यथा-हिमरुचिररुणिम्ना राजते रज्यमानैर्जरवकमलकन्दच्छेदगौरैर्मयूखैः ॥१८०॥ सन्ध्यारागे
* मुद्रितमूले-समीढो मूत्रिते घने । अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुसूर्ययोः ॥