________________
(७८) अनेकार्थसंग्रहः सटीकः
*अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति । आषाढो मलयगिरौ व्रतिदष्डे च मासि च । ॥१७७॥ उपोढ ऊढे निकटेऽप्युदूढः पोवरोढयोः ॥
प्ररुढो जठरे वृद्ध प्रगाढो दृढकृच्छ्योः ।।१७८॥ यया सा कृत सापत्न्या सा चासौ योषिच्च या एकस्या उपरि द्वितीया परिणीयते । आषाढो मलयगिरौ व्रतिदण्डे च मासि च । आषाढो देवता यस्य आषाढः। देवता (६-२-१०१) इत्यण् । आषाढा प्रयोजनमस्येति वा । विशाखाषाढान्मन्थदण्डे (६-४-१२०) इति अण् । आषाढी पूर्णमासी अस्येति वा । सास्य पौर्णमासी (६-२-९८) इत्यण् । मलयगिरौ यथा-प्ररूढं बाढमाषाढे चन्द्रनैर्दृढगन्धिभिः । व्रतिदण्डे यथा-अथाजिनाषाढधरः प्रगल्भवाक् । मासे मासविशेषे यथाआषाढस्य प्रथम दिवसे मेघमालिष्ट सानुम् ।।१७७।। उपोढ ऊढे निकटेऽपि । उपोह्यते स्म उपोढः। वाच्यलिङ्गः। ऊढे यथाउपोढ रागेण विलोलतारकम् । निकटं समीपम् । तत्र यथाउपोढाणि यथा ग्रहणे निषित्रेऽरुमा विशेषोच्छ्वसितम्बभूव । उदूढः पीवरोढयोः ॥ उदुह्यते स्म उढः वाच्यलिङ्गः। ऊढे यथा-उदूढलोकत्रितयेन साम्प्रतं । गुरुर्धरित्रीक्रियते तरां त्वया । प्ररूढो जरठे वृधे । प्ररोहति स्म प्ररूढः । वाच्यलिङ्गः । द्वयोर्यथा-प्ररूढरोमां कुरु दन्तुरेण । प्रगाढो दृढकृच्छ्रयोः । प्रगाह्यते स्म प्रगाढः । वाच्यलिङ्गः । दृढे यथा-प्रगाढप्रौढबाहवः । भृशेऽपि । यदाह-प्रगाढं कृच्छ्रमिच्छन्ति प्रगाढं वलवभृशम् ।। १७८।। वारुढः शम्बले वस्त्राञ्चलेऽग्नौ पञ्जरेर । वाभिरुह्यते स्म वारूढः पञ्चस्वर्थेषु । अररि: कपाटम् । विरूढोऽङ्करिते जाते । विरोह* संपिण्डस्तनये प्रोक्तो दायादे सदृशेऽपि च । अध्यूढ० ।