SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Am तृतीयः काण्डः वत्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने । गणिस्थराजे वितण्डा कच्चीशाके शिलाह्वये* ॥१७॥ करवोर्यां वादभेदे शिखण्डो बर्हचूडयोः । सरण्डः स्यात्कृकलासे भूषणान्तरधूर्तयोः ॥१७६।। (३-२-५६) इति अवस्य वादेशः शारिका पक्षिणी । क्षुरी कृपाणी ॥१७४।। वत्तिर्दशा । वारुण्डस्तु कर्णदृग्मले सेकभाजने । गणिस्थराजे । वृणोति वारुण्डः। पिचण्डैरण्ड इति साधुः। कर्णस्य दृशश्च मल: कर्णदृग्मल:। गणिस्थराजो वृक्षभेदः। तयोः पुंक्लीबः । सेकभाजने यथा-वारुण्डेन मुनेः कन्या तरुषण्डं निषिञ्चति । वितण्डा कच्चीशाके शिलाह्वये । करवीर्यां वादभेदे। वितन्यते वितण्डा पञ्चमाड्डः (उ० १६८) इति ड: । चतुर्वर्थेषु । कच्चीशाकः शाकभेदः । शिलाह्वय ओषधम् ॥१७५।। करवीरी लताभेदः । वादभेदे यथा-जलः प्रतिपक्षस्थापनाहोनो वितण्डा। शिखण्डो बर्हचूडयोः । शिखाभिर्डयते शिखण्ड: । क्वचित् इति डे पृषोदरादित्वात्साधुः । बर्हे कलापे यथा-खड्गसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः । चूडायां काकपक्षे यथा-तौ पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावुभौ। सरण्ड: स्यात्कृकलासे भूषणान्तरधूर्तयोः । सरति सरण्ड: । ज क (उ० १७३) इत्यण्डः। कृकलासः सरट: । भूषणान्तरं भूषणभेदः। धूर्ते शठे वाच्यलिङ्गः । तत्र यथा-सरण्डै: खण्डिता मही ॥१७६।। अथ ढान्ताः । अध्यूढ ईश्वरे । अध्युह्यते स्म अध्यूढः ईश्वरो विभुः । अध्यूढा कृतसापत्न्ययोषिति । कृत सापन्त्यं १ मु० म० फणिराजद्वारपिण्डयोर्वारुण्डः खग उदिणि (?) वितण्डा वार्तभेदे स्यादत्कच्चीशाके शिलाह्वये।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy