________________
(७६)
अनेकार्थसंग्रहः सटीकः
भेरुण्डौ भीषणखगौ भेरुण्डा देवताभिदि । 'मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले ॥१७३।। मार्तण्डस्तरणौ कोडे वरण्डो वदनामये ।
अन्तरावेदौ सङ्घ च वतण्डा शारिका क्षुरी ॥१७४।। इति-इलः। अथ पूत्यण्डो गन्धणे गन्धकीटके। पूतिरहितं पूतिप्रधानं वाऽण्डं मुष्कः कोशो वाऽस्य पूत्यण्डः । गन्धैणः कस्तूरिकामृगः । गन्धकीटः सुरभिकीटकः ॥ १७२ ॥ भेरुण्डौ भीषणखगौ। विभेत्यस्मादिति भेरुण्डः। पिचण्डैरण्ड इति साधुः । भीषणे भीष्मे वाच्यलिङ्गः। खगः पक्षी। तत्र यथा-विसंहता विनश्यति भेरुण्डा इव पक्षिणः। भेरुण्डा देवताभिदि । भेरुण्डा रुण्डमालायुगलवलयिता। मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले । मारयन्ति मार्यते वाऽत्र मारण्डः। पिचण्डैरण्ड इति साधुः । त्रिषु अर्थेषु । भुजङ्गानामण्डः कोशः । मार्गोऽध्वा। गोमयस्य मङ्गलार्थं मण्डलम् गोमयमण्डलम् ।।१७३।। मार्तण्डस्तरणौ कोडे । मृतण्डस्यापत्यं मार्तण्डः । ऋषिवृष्णि (६-१-६१) इत्यण् । मारयति वा । पिचण्डैरण्ड इति साधुः। तरुणौ यथा-अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः। क्रोडः सूकरः । वरण्डो वदनामये । अन्तरावेदौ सधे च । वियते वरण्डः । न कृ तृ (उ० १७३) इति अण्डः। वदनामये यथा-वरण्डेनार्दितं तुण्डम् । अन्तरावेदौ यथा-वरण्ड क्रमदण्डाभ्यामारुरोह द्विपः क्रुधा। सङ्घ यथा-इक्षोर्वरण्डं क्षिपति स्म शुण्डया । वतण्डा शारिका क्षुरी। वत्तिः । अवतनोति वतण्डा । पञ्चमाड्डः (उ० १६८) इति साधुः। वा वाप्योः . १ मु० म० मारुण्डस्तु २ वदनव्यथा ३ वरण्डा