________________
तृतीयः काण्ड:
(७५)
नीलशेफाल्यब्जकन्दः प्रचण्डः स्यात्प्रतापिनि । वलक्षकरवीरेऽपि प्रकाण्डः स्तम्बशस्तयोः ॥१७१॥ स्कन्धमलान्तरे च द्रोः पिचण्डोऽवयवे पशोः ।
उदरे चाथ पूत्यण्डो गन्धणे गन्धकोटके ॥१७२।। त्वात् ॥१६९।। तित्तिडी तु कालदासे महीरहे । गौरादित्वात् डीः। कालस्य यमस्य दास: कालदासः । तिन्तिडी चुके चिञ्चायां। तिन्तिडशैलभवत्वात् तिन्तिडी। तिम्पति वा। विहडकहोड (उ० १७२) इति साधुः । चुक्रम अम्लवेतसः । चिञ्चा अम्लिका । निर्गुण्डी सिन्धुवारकः । नीलशेफाल्यब्जकन्दः । गुडुण् वेष्टने निर्गुण्डयति निर्गुण्डी। सिन्धुवार-नीलशेफाल्यौ वृक्षौ । अब्जकन्दः पद्मकन्दः । सिन्धुवारे यथा-निर्गुण्डी धूपगुण्डितम् ॥१७०।। प्रचण्ड: स्यात्प्रतापिनि । वलक्षकरवीरेऽपि । प्रचण्डते प्रचण्डः। प्रतापिनि वाच्यलिङ्गः । तत्र यथा-प्रचण्डा चामुण्डा समरडमरं खण्डयतु वः । वलक्षकरवीरः 'वेतकरवीरः। प्रकाण्ड: स्तम्बशस्तयोः । स्कन्दमूलान्तरे च द्रोः । प्रवृद्धं काण्डमस्य प्रकाण्डः। प्रकण्यते वा। कण्यणि (उ० १६९) इति णित् ड: । पुंक्लीबः । स्तम्बे यदा-कुशप्रकाण्डेन ममार्ज भाण्डम् । शस्ते प्रशस्ते यथा-जानाम्यह त्वां पुरुष प्रकाण्डम् ॥१७१।। द्रोवृक्षस्य स्कन्धमूलयोरन्तरं मध्यभागस्तत्र यथाकण्डूयमानाः सरलप्रकाण्डे । पिचण्डोऽवयवे पशोः। उदरे च । अपिचण्डते पिचण्डः। पृषोदरादित्वादलोपः। पिचेः सौत्रस्य वा । पिचण्डैरण्ड इति साधुः । पशोरवयवे यथा-पिचण्डखण्डानि चखाद चण्डी । उदरे यथा-पिचण्डिलश्चण्डगतिः कथं भवेत् । अत्र हि पिचण्डोऽस्त्यस्येति । लोमपिच्छादेः (७-२-२८)