________________
(७४)
अनेकार्थसंग्रहः सटोकः
कोदण्डः कार्मुके देशभेदभ्रूलतयोरपि । गारुडं तु मरकते विषशास्त्रेऽथ तित्तिडः ॥१६९।। दैत्यभेदे तित्तिडी तु कालदासे महीरहे । तिन्तिडी चुके चिञ्चायां निर्गुण्डी सिन्धुवारकः ॥१७०।। ॥१६७।। अथ डान्ताः । कारण्डो मधुकोशेऽसौ कारण्डवेदलाटके । किरति कीर्यते वा कारण्ड: । पिचण्डैरण्ड: (उ०१७६) इति साधुः चतुर्पु अर्थेषु । मधुकोशे मधुमण्डकः । असिः खड्गः । कारण्डवदलाडको पक्षिणौ। कूष्माण्डौ गणकर्कारू । कुष्णाति कुष्यते वा कूष्माण्ड: । पिचण्डैरण्ड इति साधुः । गणः केलिकिलाक्षः । करौि यथा-ब्रूत नूतन कूष्माण्डफलानां के भवन्त्यमी। भ्रूणेऽपि । कूष्माण्ड्यावम्बिकौषधी। अम्बिकायां देवताविशेषे यथा-मृगेन्द्रवाहना नित्यं कूष्माण्डी कमलेक्षणा ।।१६८।। कोदण्डः कार्मुके देशभेदभ्रूलतयोरपि । कोटिमान दण्डोऽस्य कोदण्ड: । पृषोदरादित्वात् कूयते वा। पिचण्डैरण्ड (उ० १७६) इति साधुः । कार्मुके पुंक्लीबः । तत्र यथास्फुटिष्यति न कोदण्डस्त्रुटिष्यति न वा गुणः। भ्रूलतायां यथाकोदण्डे दृश्यते ज्योति: । गारुडं तु मरकते विषशास्त्रे (विषोद्भवे)। गरुडस्येदं गरुडो देवताऽस्येति वा गारुडम् । गरुडमधिकृत्य कृतम् वा। अमोऽधिकृत्यग्रन्थे (६-३-१९८) इत्यण् । मरकते यथाराशिर्मणीनामिव गारुडानां स पद्मरागः फलितो विभाति । विषशास्त्रे यथा-नष्टं विषं गारुडमन्त्रजापैः । अथ तित्तिड: । दैत्यभेदे । तिर्यक् ताडयति ताज्यते वा तित्तिड: । पृषोदरादि१ मु० मू० विषोद्भवे तरण्डो बडिशीसूत्रबद्धस्तु निभेलके तित्तिडो० । २ दैत्यभेदे स्याद्यमदाशेथ तित्तिडी।