________________
: तृतीयः काण्डः
(७३)
AAAAAAAAAAAAAAAAAAAAAA
लघिष्ठो भेलकेऽत्यल्पे स्याद्वरिष्ठस्तु तित्तिरे । वरिष्ठं मरिचे ताम्र वरोरूतमयोरपि ॥१६६।। वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले । शङ्करे चाथ साधिष्ठोऽत्यर्थे दृढतमेऽपि च ।।१६७।। कारण्डो मधुकोशेऽसौ कारण्डवे दलाटके ।
कूष्माण्डौ गणकारू कूष्माण्ड्यावम्बिकौषधी ॥१६८।। यथा-इष्टि: प्रतिष्ठासमये पुरारेः । मत्कुष्ठौ धान्यमन्थरौ मद्यते मत्कुष्ठः । “पष्ठधिठादयः” (उ० १६६) इति साधुः । मन्थरे वाच्यलिङ्गः । धान्ये यथा-मत्कुष्ठाः कुष्ठनाशनाः । मन्थरे यथा-मत्कुष्ठगामी सततं सकामी ॥१६५।। लघिष्ठो भेलकेऽत्यल्पे स्यात् । अतिशयेन लघुर्लघिष्ठः । भेलक उड्डुपः । अत्यल्पे वाच्यलिङ्गः । तत्र यथा-ज्येष्ठे लघिष्ठो रजनिर्बभूव । वरिष्ठस्तु तित्तिरौ । अतिशयेन वरो वरिष्ठः । तित्तिरिः पक्षी । वरिष्ठं मरिचे ताने वरोरुतमयोरपि । अतिशयेन उरु वरिष्ठ "प्रियस्थिर" ७-४-३८ । इति वरादेशः । वरोरुतमयोर्वाच्यलिङ्गः । तयोर्यथा- वसिष्ठस्तमभाषिष्ट वरिष्ठं रघुपुङ्गवम् । ॥१६६।। वैकुण्ठो वासवे विष्णौ । विकुण्ठाया अयं वैकुण्ठः । वासवे यथा-वैकुण्ठों दशकण्ठेन कुण्ठशक्तिविनिर्ममे । विष्णौ यथा-वैकुण्ठकमठः पायात् । श्रीकण्ठः कुरुजाङ्गले शङ्करे च । श्रीः कण्ठे यस्य श्रीकण्ठः । कुरुजाङ्गलं तीर्थविशेषः । शङ्करे यथा-श्रीकण्ठकण्ठच्छविः । अथ साधिष्ठोऽत्यर्थे दृढतमेऽपि च। अतिशयेन साधुः साधिष्ठः । अतिशयेन बाढो वा। बाढन्तिकयोधिनेदौ (७-४-३७) इति साधादेशः । वाच्यलिङ्गः । द्वयोर्यथा-अधिष्ठितमसाधिष्ठः सुष्ठ राज्यं न तिष्ठति